|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.60. अध्यायः 060
Mahabharata - Vana Parva - Chapter Topics
वने चरन्त्या दमयन्त्या अजगरेण ग्रहणम् ॥ 1 ॥ वनचरेण व्याधेन तां ग्रसतोऽजगरस्य वधः ॥ 2 ॥ दमयन्त्या आत्मकामुकस्य तद्व्याधस्य स्वपातिव्रत्यमहिम्ना हननम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-60-0x(1932)(18111)
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा।
अबुध्यत वरारोहा संत्रस्ता विजने वने ॥ 3-60-1(18112)
अपश्यमाना भर्तारं शोकदुःखसमन्विता।
प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम् ॥ 3-60-2(18113)
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम्।
हा हताऽस्मि विनष्टाऽस्मि भीताऽस्मि विजने वने ॥ 3-60-3(18114)
ननु नाम महारज धर्मज्ञः सत्यवागसि।
कथंविधस्त्वंहि तथा सुप्तामुत्सृज्य मां गतः ॥ 3-60-4(18115)
कथमुत्सृज्यगन्ताऽसि वश्यां भार्यामनुव्रताम्।
विशेषतो नापकृतः परेणापकृतो ह्यसि ॥ 3-60-5(18116)
शक्यसे न गिरः सत्याः कर्तुं मयि नरेश्वर।
यास्त्वया लोकपालानां सन्निधौ कथिताः पुरा ॥ 3-60-6(18117)
नाकाले विहितो मृत्युर्मर्त्यानां पुरुषर्षभ।
यत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति ॥ 3-60-7(18118)
पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ।
भृशं भीतास्मि दुर्धर्ष दर्शयात्मानमीश्वर ॥ 3-60-8(18119)
दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध।
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ॥ 3-60-9(18120)
नृशंसां वत राजेन्द्र यन्मामेवंगतामिह।
विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव ॥ 3-60-10(18121)
न शोचाम्यहमात्मानं न चान्यदपि किंचन।
कथं नु भवितास्येक इति त्वां नृप शोचये ॥ 3-60-11(18122)
कथं नु राजंस्तृषितः क्षुक्षितः श्रमकर्शितः।
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि ॥ 3-60-12(18123)
ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना।
इतश्चेतश्च रुदती पर्यधावत दुःखिता ॥ 3-60-13(18124)
मुहुरुत्पतते बाला मुहुः पतति विह्वला।
मुहुरालीयते भीता मुहुः क्रोशति रोदिति ॥ 3-60-14(18125)
अतीव शोकसंतप्ता मुहुर्निःश्वस् विह्वला।
उवाच भैमी निःश्वस् रोदमाना पतिव्रता ॥ 3-60-15(18126)
यस्याभिशापाद्दुःखार्तो नैष नन्दति नैषधः।
तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् ॥ 3-60-16(18127)
अपापचेतसं पापो य एवं कृतवान्नलम्।
तस्माद्दुःखतरं प्राप्य जीवत्वमसुखजीविकाम् ॥ 3-60-17(18128)
एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः।
अन्वेषति स्म भर्तारं वने श्वापदसेविते ॥ 3-60-18(18129)
उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः।
हाहा राजन्निति मुहुरितश्चेतश्च धावति ॥ 3-60-19(18130)
तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम्।
करुणं बहुशोचन्तीं विलपन्तीं सुमध्यमाम्। 3-60-20(18131)
सहसाऽभ्यागतां भैमीमभ्याशपरिवर्तिनीम्।
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः ॥ 3-60-21(18132)
सा ग्रस्यमाना ग्रहेण शोकेन च पराजिता।
नात्मानं शोचति तथा यथा शोचति नैषधम् ॥ 3-60-22(18133)
द्वा नाथ मामिह वने ग्रस्यमानामनागसम्।
ग्राहेणानेन विजने किमर्थं नानुधावसि ॥ 3-60-23(18134)
कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध।
[कथं भवाञ्जगामाद्य मामुत्सृज्य वने प्रभो।]
पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चोतो धनानि च ॥ 3-60-24(18135)
श्रान्तस्य ते क्षुधार्तस् परिग्लानस्य नैषध।
कः श्रमं राजशार्दूल नाशयिष्यति तेऽनघ ॥ 3-60-25(18136)
बृहदश्च उवाच। 3-60-26x(1933)
तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्।
आक्रन्दमानां संश्रुत्य जवेनाभिससार ह ॥ 3-60-26(18137)
तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्।
त्वरमाणो मृगव्याधः संचरन्गहने वने।
समभिक्रम्य वेगेन सत्वरः स वनेचरः ॥ 3-60-27(18138)
मुखे तं पाटयामास शस्त्रेण निशितेन च।
निर्विचेष्टं भुजङ्गं तं विशस् मृगजीवनः ॥ 3-60-28(18139)
मोक्षयित्वा स तांव्याधः प्रक्षाल्य सलिलेन ह।
समाश्वास्य कृताहारामथ पप्रच्छ भारत ॥ 3-60-29(18140)
कस्य त्वं मृगशावाक्षि कथं चास्यागता वनम्।
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि ॥ 3-60-30(18141)
दमयन्ती तथा तेन पृच्छ्यमाना विशांपते।
सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत ॥ 3-60-31(18142)
तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम्।
सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् ॥ 3-60-32(18143)
अरालपक्ष्मनयनां तथा मधुरभाषिणीम्।
लक्षयित्वा मृगव्याधः कामस्य वशमीयिवान् ॥ 3-60-33(18144)
तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया।
सान्त्वयामास कामार्तस्तदबुध्यत भामिनी ॥ 3-60-34(18145)
दमयन्त्यपि तं दुष्टमुपलभ्य पतिव्रता।
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना ॥ 3-60-35(18146)
स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः।
दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव ॥ 3-60-36(18147)
दमयन्ती तु दुःखार्था पतिराज्यविनाकृता।
अतीतवाक्यथे काले शशापैनं रुषा किल ॥ 3-60-37(18148)
यथाऽहं नैषधादन्यं मनसाऽपि न चिन्तये।
तथाऽयं पततां क्षुद्रः परासुर्मृगजीवनः ॥ 3-60-38(18149)
उक्तमात्रे तु वचने तया स मृगजीवनः।
व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः ॥ 3-60-39(18150)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-60-13 मन्युना शोकेन ॥ 3-60-16 कलिं शपति यस्येति। अभिशापात्र वृथाद्वेषात् ॥ 3-60-20 वाशतीं क्रोशन्तीम् ॥ 3-60-21 ग्राहः सर्पः ॥ 3-60-24 बुद्धिलाभादूर्ध्वं मां विना कथं भविष्यसि कथं जीविष्यसि। शापान्मुक्तः इति क. पाठः ॥ 3-60-28 विशस्य विदार्य ॥ 3-60-33 अरालानि शोभमानानि पक्ष्माणि नयनप्रान्तरोमाणि ययोस्तादृशे नयने यस्या इति तथा ॥ 3-60-35 मन्युना क्रोधेन ॥ 3-60-37 पतिराज्यविनाकृता पत्या राज्येन च रहिता। अतीतवाक्पथे वाचाप्यनिवार्ये सति। काले धूम्रवर्णे व्याधे ॥ 3-60-38 परासुः गतप्राणः ॥ 3-60-39 व्यसुर्विगतप्राणः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|